१. संस्कृतेन जीवनं कथं समृद्धं भवेत् इति अधिकृत्य ‘सुन्दरसुरभाषा धरायां विजयते’ इति संस्कृतनाटिकया छात्राः जागरूकाः करणीयाः।
छात्राः एकां लघुनाटिकां निर्मान्तु यस्यां संस्कृतभाषायाः महत्त्वं, तस्याः ज्ञान-विज्ञान-संस्कार-प्रदात्री शक्तिः, दैनिकजीवने उपयोगः च दृश्यते। पात्राणि मुनयः, कवयः, छात्राः, सामान्यजनाः भवेयुः ये दर्शयेयुः यत् संस्कृतपठनात् चरित्रं, बुद्धिः, संस्कृतिः च समृद्धा भवति।
२. सरलसंस्कृतगीतानां संग्रहं कुरुत कक्षायां च गायत। यथा – सुरससुबोधा विश्वमनोज्ञा, मनसा सततं स्मरणीयम्, मृदपि च चन्दनमस्मिन् देशे, इत्यादीनि।
छात्राः सरलानि संस्कृतगीतानि यथा सुरससुबोधा, मनसा सततं स्मरणीयम्, मृदपि च चन्दनम् इत्यादीनि सङ्गृह्य कण्ठस्थं कृत्वा कक्षायां सस्वरं गायेयुः। एतेन उच्चारणं शुद्धं भविष्यति संस्कृते रुचिः च वर्धिष्यते।
३. संस्कृतसाहित्ये प्रसिद्धानां कवीनां काव्यानां च संग्रहः करणीयः।
छात्राः वाल्मीके: रामायणम्, व्यासस्य महाभारतम्, कालिदासस्य अभिज्ञानशाकुन्तलम् मेघदूतम् च, बाणभट्टस्य कादम्बरी, भास-दण्डी-भवभूति-भारवि-माघादीनां कृतयः इत्यादीनां नामानि चित्रैः सह सङ्गृह्य एकं चार्टं निर्माय कक्षायां प्रदर्शयेयुः।